हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Yuddha Kanda Sarga 97 – युद्धकाण्ड सप्तनवतितमः सर्गः (९७)
॥ विरूपाक्षवधः ॥
तथा तैः कृत्तगात्रैस्तु दशग्रीवेण मार्गणैः ।
बभूव वसुधा तत्र प्रकीर्णा हरिभिस्तदा ॥ १ ॥
रावणस्याप्रसह्यं तं शरसम्पातमेकतः ।
न शेकुः सहितुं दीप्तं पतङ्गा ज्वलनं यथा ॥ २ ॥
तेऽर्दिता निशितैर्बाणैः क्रोशन्तो विप्रदुद्रुवुः ।
पावकार्चिः समाविष्टा दह्यमाना यथा गजाः ॥ ३ ॥
प्लवङ्गानामनीकानि महाभ्राणीव मारुतः ।
स ययौ समरे तस्मिन्विधमन्रावणः शरैः ॥ ४ ॥
कदनं तरसा कृत्वा राक्षसेन्द्रो वनौकसाम् ।
आससाद ततो युद्धे राघवं त्वरितस्तदा ॥ ५ ॥
सुग्रीवस्तान्कपीन्दृष्ट्वा भग्नान्विद्रवतो रणे ।
गुल्मे सुषेणं निक्षिप्य चक्रे युद्धेऽद्भुतं मनः ॥ ६ ॥
आत्मनः सदृशं वीरः स तं निक्षिप्य वानरम् ।
सुग्रीवोऽभिमुखः शत्रुं प्रतस्थे पादपायुधः ॥ ७ ॥
पार्श्वतः पृष्ठतश्चास्य सर्वे यूथाधिपाः स्वयम् ।
अनुजह्रुर्महाशैलान्विविधांश्च महाद्रुमान् ॥ ८ ॥
स नर्दन्युधि सुग्रीवः स्वरेण महता महान् ।
पातयन्विविधांश्चान्यान्जगामोत्तमराक्षसान् ॥ ९ ॥
ममन्थ च महाकायो राक्षसान्वानरेश्वरः ।
युगान्तसमये वायुः प्रवृद्धानगमानिव ॥ १० ॥
राक्षसानामनीकेषु शैलवर्षं ववर्ष ह ।
अश्मवर्षं यथा मेघः पक्षिसङ्घेषु कानने ॥ ११ ॥
कपिराजविमुक्तैस्तैः शैलवर्षैस्तु राक्षसाः ।
विकीर्णशिरसः पेतुर्निकृत्ता इव पर्वताः ॥ १२ ॥
अथ सङ्क्षीयमाणेषु राक्षसेषु समन्ततः ।
सुग्रीवेण प्रभग्नेषु पतत्सु निनदत्सु च ॥ १३ ॥
विरूपाक्षः स्वकं नाम धन्वी विश्राव्य राक्षसः ।
रथादाप्लुत्य दुर्धर्षो गजस्कन्धमुपारुहत् ॥ १४ ॥
स तं द्विरदमारुह्य विरूपाक्षो महारथः ।
विनदन्भीमनिर्ह्रादं वानरानभ्यधावत ॥ १५ ॥
सुग्रीवे स शरान्घोरान्विससर्ज चमूमुखे ।
स्थापयामास चोद्विग्नान्राक्षसान्सम्प्रहर्षयन् ॥ १६ ॥
स तु विद्धः शितैर्बाणैः कपीन्द्रस्तेन रक्षसा ।
चुक्रोध स महाक्रोधो वधे चास्य मनो दधे ॥ १७ ॥
ततः पादपमुद्धृत्य शूरः सम्प्रधनो हरिः ।
अभिपत्य जघानास्य प्रमुखे तु महागजम् ॥ १८ ॥
स तु प्रहाराभिहतः सुग्रीवेण महागजः ।
अपासर्पद्धनुर्मात्रं निषसाद ननाद च ॥ १९ ॥
गजात्तु मथितात्तूर्णमपक्रम्य स वीर्यवान् ।
राक्षसोऽभिमुखः शत्रुं प्रत्युद्गम्य ततः कपिम् ॥ २० ॥
आर्षभं चर्म खड्गं च प्रगृह्य लघुविक्रमः ।
भर्त्सयन्निव सुग्रीवमाससाद व्यवस्थितम् ॥ २१ ॥
स हि तस्याभिसङ्क्रुद्धः प्रगृह्य विपुलां शिलाम् ।
विरूपाक्षाय चिक्षेप सुग्रीवो जलदोपमाम् ॥ २२ ॥
स तां शिलामापतन्तीं दृष्ट्वा राक्षसपुङ्गवः ।
अपक्रम्य सुविक्रान्तः खड्गेन प्राहरत्तदा ॥ २३ ॥
तेन खड्गप्रहारेण रक्षसा बलिना हतः ।
मुहूर्तमभवद्वीरो विसञ्ज्ञ इव वानरः ॥ २४ ॥
स तदा सहसोत्पत्य राक्षसस्य महाहवे ।
मुष्टिं संवर्त्य वेगेन पातयामास वक्षसि ॥ २५ ॥
मुष्टिप्रहाराभिहतो विरूपाक्षो निशाचरः ।
तेन खड्गेन सङ्क्रुद्धः सुग्रीवस्य चमूमुखे ॥ २६ ॥
कवचं पातयामास पद्भ्यामभिहतोऽपतत् ।
स समुत्थाय पतितः कपिस्तस्य व्यसर्जयत् ॥ २७ ॥
तलप्रहारमशनेः समानं भीमनिस्वनम् ।
तलप्रहारं तद्रक्षः सुग्रीवेण समुद्यतम् ॥ २८ ॥
नैपुण्यान्मोचयित्वैनं मुष्टिनोरस्यताडयत् ।
ततस्तु सङ्क्रुद्धतरः सुग्रीवो वानरेश्वरः ॥ २९ ॥
मोक्षितं चात्मनो दृष्ट्वा प्रहारं तेन रक्षसा ।
स ददर्शान्तरं तस्य विरूपाक्षस्य वानरः ॥ ३० ॥
ततो न्यपातयत्क्रोधाच्छङ्खदेशे महत्तलम् ।
महेन्द्राशनिकल्पेन तलेनाभिहतः क्षितौ ॥ ३१ ॥
पपात रुधिरक्लिन्नः शोणितं च समुद्वमन् ।
स्रोतोभ्यस्तु विरूपाक्षो जलं प्रस्रवणादिव ॥ ३२ ॥
विवृत्तनयनं क्रोधात्सफेनं रुधिराप्लुतम् ।
ददृशुस्ते विरूपाक्षं विरूपाक्षतरं कृतम् ॥ ३३ ॥
स्फुरन्तं परिवर्तन्तं पार्श्वेन रुधिरोक्षितम् ।
करुणं च विनर्दन्तं ददृशुः कपयो रिपुम् ॥ ३४ ॥
तथा तु तौ सम्यति सम्प्रयुक्तौ
तरस्विनौ वानरराक्षसानाम् ।
बलार्णवौ सस्वनतुः सुभीमं
महार्णवौ द्वाविव भिन्नवेलौ ॥ ३५ ॥
विनाशितं प्रेक्ष्य विरूपनेत्रं
महाबलं तं हरिपार्थिवेन ।
बलं समस्तं कपिराक्षसानां
उन्मत्तगङ्गाप्रतिमं बभूव ॥ ३६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तनवतितमः सर्गः ॥ ९७ ॥
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.